UpasanaYoga.org वाक्य-अर्थ-विचारः
Format information
Format by A.K. Aruna, 2017 ver.4.0: UpasanaYoga . If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga .
If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red . For ease in reading commentary paragraphs, several long vowels and a few other sandhis have been split.
These are a selection of mainly Upaniṣad mantras and Bhagavad Gītā verses compiled and arranged to present the essential import of the Śāstra . The selection and the presentation is by Swami Dayananda Saraswati started September 2014 and completed in 2015 at the Long-term Vedanta Course in Arsha Vidya Gurukulam, Anaikatti. This is not an official text of these talks. I have occasionally added some background, intermediary, and follow up mantras and verses to cover ideas touched upon in the talks to fill out the import of the selected phrases or terminologies of the mantras and verses. The links (🔗) take you to the available English translations.
The DarkGreen verse and mantra numbers are links that open the Source text to those numbers. The 🔗 links will open the English-Only versions of the Source texts. Placing your cursor or finger on the Orange-Red ≈ link will display the translation of each verse or mantra.
by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
ओं, शं नो मित्रः शं वरुणः…
1. Discovering Limitation of Available Means
परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयान् नास्त्य् अकृतः कृतेन। तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम्॥MunU.1.2.12 ॥ 🔗 ≈
Go to Top ('Home' key on many Windows browsers)
2. The Goal Expressed as Ānanda
TaitU.2.8.1. …सैषानन्दस्य मीमां॑सा भ॒वति। युवा स्यात् साधु यु॑वाध्या॒यकः। आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात्। स एको मानुष॑ आन॒न्दः॥ 🔗 ≈
TaitU.2.8.2. स एको मनुष्य-गन्धर्वाणा॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शनं मनुष्य-गन्धर्वाणा॑म् आन॒न्दाः। स एको देव-गन्धर्वाणा॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतं देव-गन्धर्वाणा॑म् आन॒न्दाः। स एकः पितॄणां चिर-लोक-लोकाना॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतं पितॄणां चिर-लोक-लोकाना॑म् आन॒न्दाः। स एक आजान-जानां देवाना॑म् आन॒न्दः॥ 🔗 ≈
TaitU.2.8.3. श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतम् आजान-जानां देवाना॑म् आन॒न्दाः। स एकः कर्म-देवाना॑म् आन॒न्दः। ये कर्मणा देवान् अ॑पिय॒न्ति। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतं कर्म-देवानां देवाना॑म् आन॒न्दाः। स एको देवाना॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतं देवाना॑म् आन॒न्दाः। स एकः इन्द्र॑स्यान॒न्दः॥ 🔗 ≈
TaitU.2.8.4. श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतम् इन्द्र॑स्यान॒न्दाः। स एको बृहस्-पते॑र् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतं बृहस्-पते॑र् आन॒न्दाः। स एकः प्रजा-पते॑र् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य। ते ये शतं प्रजा-पते॑र् आन॒न्दाः। स एको ब्रह्मण॑ आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य॥ 🔗 ≈
BrhU.4.3.33. स यो॒ मनु॒ष्याणाग्ँ राद्धः स॒मृद्धो भ॒वत्य् अन्ये॒षाम् अ॒धि-पतिः स॒र्वैर् मा॒नुष्यकैर् भो॒गैः संपन्न॒तमः स॒ मनु॒ष्याणां परम॒ आनन्दो॒ऽथ ये॒ शतं॒ मनु॒ष्याणाम् आनन्दाः स ए॒कः पितॄणां॒ जित॒-लोकानाम् आनन्दो॒…॥ 🔗 ≈
Go to Top ('Home' key on many Windows browsers)
3. Qualifications and Duties of Student
[अङ्गिरस्-शौनक-संवादः]
ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्म-विद्यां सर्व-विद्या-प्रतिष्ठाम् अथर्वाय ज्येष्ठ-पुत्राय प्राह॥MunU.1.1.1 ॥ 🔗 ≈
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्म-विद्याम्। स भारद्वाजाय सत्य-वहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्॥MunU.1.1.2 ॥ 🔗 ≈
MunU.1.1.3. शौनको ह वै महा-शालोऽङ्गिरसं विधिवद् उपसन्नः पप्रच्छ। कस्मिन् नु भगवो विज्ञाते सर्वम् इदं विज्ञातं भवतीति। 🔗 ≈
MunU.1.1.4. तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्म-विदो वदन्ति परा चैवापरा च। 🔗 ≈
MunU.1.1.5. तत्रापरा ऋग्-वेदो यजुर्-वेदः साम-वेदोऽथर्व-वेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति। अथ परा यया तद् अक्षरम् अधिगम्यते। 🔗 ≈
[सनत्-कुमार-नारद-संवादः]
ChanU.7.1.1. अधीहि भगव इति होपससाद् सनत्-कुमारं नार-दः। तग्ँ होवाच यद् वेत्थ तेन मोपसीद। ततस् त ऊर्ध्वं वक्ष्यामीति। स होवाच॥ 🔗 ≈
ChanU.7.1.2. ऋग्-वेदं भगवोऽध्येमि यजुर्-वेदग्ँ साम-वेदम् आथर्वणं चतुर्थम् इति-हास-पुराणं पञ्चमं वेदानां वेदं पित्र्यग्ँ राशिं दैवं निधिं वाको-वाक्यम् एकायनं देव-विद्यां ब्रह्म-विद्यां भूत-विद्यां क्षत्र-विद्यां नक्षत्र-विद्याग्ँ सर्प-देव-जन-विद्याम् एतद् भगवोऽअध्येमि॥ 🔗 ≈
ChanU.7.1.3. सोऽहं भगवो मन्त्र-विद् एवास्मि नात्म-वित्। श्रुतग्ँ ह्य् एव मे भगवद् दृशेभ्यस् तरति शोकम् आत्म-विद् इति। सोऽहं भगवः शोचामि। तं मा भगवाञ् छोकस्य पारं तारयन्व् इति। तग्ँ होवाच यद् वै किञ्चैतद् अध्यगीष्ठा नामैवैतत्॥ 🔗 ≈
ChanU.7.23.1. यो वै भूमा तत् सुखम्। नाल्पे सुखम् अस्ति। भूमैव सुखम्। भूमा त्व् एव विजिज्ञासितव्य इति…॥ 🔗 ≈
[याज्ञ-वल्क्य-मैत्रेयी-संवादः]
BrhU.2.4.1. मै॒त्रेयी॒ति होवाच या॒ज्ञ-वल्क्यः। उद्यास्यन् वा॒ अरेऽह॒म् अस्मात् स्था॒नाद् अस्मि। ह॒न्त तेऽन॒या कात्यायन्या॒ऽन्तं कर॒वाणी॒ति॥ 🔗 ≈
BrhU.2.4.2. सा॒ होवाच मै॒त्रेयी। यन् नु॒ म इयं॒ भगोः स॒र्वा पृथिवी॒ वित्ते॒न पूर्णा स्या॒त् कथं ते॒नामृ॒ता स्याम् इ॒ति। ने॒ति होवाच या॒ज्ञ-वल्क्यः। य॒थै॒वोपकरण॒वतां जीवितं त॒थैव॒ ते जीवितग्ँ॒ स्यात्। अमृतत्व॒स्य तु॒ ना॒शाऽस्ति वित्तेने॒ति॥ 🔗 ≈
BrhU.2.4.3. सा॒ होवाच मै॒त्रेयी। ये॒नाहं॒ नामृ॒ता स्यां कि॒म् अहं ते॒न कुर्याम्। य॒द् एव भ॒गवान् वे॒द त॒द् एव॒ मे ब्रूही॒ति॥ 🔗 ≈
BrhU.2.4.4. स॒ होवाच या॒ज्ञ-वल्क्यः। प्रिया॒ बतारे नः सती॒ प्रियं॒ भाषसे। एह्य् आ॒स्स्व। व्या॒ख्यास्यामि ते। व्याच॒क्षणस्य तु॒ मे नि॒दिध्यासस्वे॒ति॥४॥ 🔗 ≈
BrhU.2.4.5. स॒ होवाच। न वा॒ अरे प॒त्युः का॒माय प॒तिः प्रियो॒ भवत्य् आत्म॒नस् तु का॒माय प॒तिः प्रियो॒ भवति। न वा॒ अरे जाया॒यै का॒माय जाया॒ प्रिया॒ भवत्य् आत्म॒नस् तु का॒माय जाया॒ प्रिया॒ भवति। न वा॒ अरे पुत्रा॒णां का॒माय पुत्राः॒ प्रिया॒ भवन्त्य् आत्म॒नस् तु का॒माय पुत्राः॒ प्रिया॒ भवन्ति। न वा॒ अरे वित्त॒स्य का॒माय वित्तं॒ प्रियं॒ भवत्य् आत्म॒नस् तु का॒माय वित्तं॒ प्रियं॒ भवति। न वा॒ अरे ब्र॒ह्मणः का॒माय ब्र॒ह्म प्रियं॒ भवत्य् आत्म॒नस् तु का॒माय ब्र॒ह्म प्रियं॒ भवति। न वा॒ अरे क्षत्र॒स्य का॒माय क्षत्रं॒ प्रियं॒ भवत्य् आत्म॒नस् तु का॒माय क्षत्रं॒ प्रियं॒ भवति। न वा॒ अरे लोका॒नां का॒माय लोकाः॒ प्रिया॒ भवन्त्य् आत्म॒नस् तु का॒माय लोकाः॒ प्रिया॒ भवन्ति। न वा॒ अरे देवा॒नां का॒माय देवाः॒ प्रिया॒ भवन्त्य् आत्म॒नस् तु का॒माय देवाः॒ प्रिया॒ भवन्ति। न वा॒ अरे भूता॒नां का॒माय भूता॒नि प्रिया॒नि भवन्त्य् आत्म॒नस् तु का॒माय भूता॒नि प्रिया॒नि भवन्ति। न वा॒ अरे स॒र्वस्य का॒माय स॒र्वं प्रियं॒ भवत्य् आत्म॒नस् तु का॒माय स॒र्वं प्रियं॒ भवति। आत्मा वा॒ अरे द्रष्ट॒व्यः श्रोत॒व्यो मन्त॒व्यो निदिध्यासित॒व्यो मै॒त्रेयि। आत्म॒नो वा॒ अरे द॒र्शनेन श्र॒वणेन मत्या॒ विज्ञा॒नेनेदग्ँ स॒र्वं विदितम्॥ 🔗 ≈
[याज्ञ-वल्क्य-गार्गी-संवादः]
BrhU.3.8.10. यो वा॒ एत॒द् अक्ष॒रं गार्ग्य् अविदि॒त्वास्मिग्ँ॒ल् लोके॒ जु॒हो॒ति य॒जते त॒पस् तप्य॒ते बहू॒नि वर्ष-सहस्राण्य् अ॒न्तवद् ए॒वास्य त॒द् भवति। यो वा॒ एत॒द् अक्ष॒रं गार्ग्य् अविदि॒त्वास्मा॒ल् लोकात् प्रै॒ति स॒ कृपणो॒ऽथ य॒ एत॒द् अक्षरं॒ गार्गि विदि॒त्वास्मा॒ल् लोकात् प्रै॒ति स॒ ब्राह्मणः॥ 🔗 ≈
[श्री-कृष्ण-अर्जुन-संवादः]
कार्पण्य-दोषोपहत-स्व-भावः पृच्छामि त्वां धर्म-सम्मूढ-चेताः। यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् तेऽहं शाधि मां त्वां प्रपन्नम्॥BhG.2.7 ॥ 🔗 ≈
[याज्ञ-वल्क्य-जनक-संवादः]
त॒म् एव धी॒रो विज्ञा॒य प्रज्ञां॒ कुर्वीत ब्राह्मणः। ना॒नुध्या॒याद् बहूञ् छ॒ब्दान् वाचो॒ विग्ला॒पनग्ँ हि तद् इ॒ति॥BrhU.4.4.21 ॥ 🔗 ≈
BrhU.4.4.23. …त॒स्माद् एवं-वि॒च् छान्तो॒ दान्त॒ उपरत॒स् तितिक्षुः समा॒हितो भू॒त्वात्म॒न्य् ए॒वात्मा॒नं पश्यति। स॒र्वम् आत्मा॒नं पश्यति॒॥ 🔗 ≈
BrhU.4.4.22. …त॒म् एतं॒ वेदानुवचने॒न ब्राह्मणा॒ विविदिष॒न्ति यज्ञे॒न दाने॒न त॒पसा॒नाशकेन। एत॒म् एव॒ विदित्वा॒ मुनि॒र् भवति। एत॒म् एव॒ प्रव्राजि॒नो लोक॒म् इच्छन्तः प्र॒व्रजन्ति। एत॒द् ध स्म वै तत् पू॒र्वे विद्वाग्ँ॒सः प्रजां न का॒मयन्ते। किं॒ प्रज॒या करिष्या॒मो ये॒षां॒ नोऽय॒म् आ॒त्मायं॒ लोक इ॒ति। ते॒ ह स्म पुत्रैषणा॒याश् च वित्तैषणा॒याश् च लोकैषणा॒याश् च व्युत्थाया॒थ भिक्षाच॒र्यं चरन्ति॥ 🔗 ≈
[तैतिरीय-प्रवचनम्]
TaitU.1.11.1. वेदम् अनूच्याचार्योऽन्तेवासिनम् अ॑नुशा॒स्ति। सत्यं॒ वद। धर्मं॒ चर। स्वाध्याया᳚न् मा प्र॒मदः। आचार्याय प्रियं धनम् आहृत्य प्रजा-तन्तुं मा व्य॑वच्छे॒त्सीः। सत्यान् न प्रम॑दित॒व्यम्। धर्मान् न प्रम॑दित॒व्यम्। कुशलान् न प्रम॑दित॒व्यम्। भूत्यै न प्रम॑दित॒व्यम्। स्वाध्याय-प्रवचनाभ्यां न प्रम॑दित॒व्यम्॥ 🔗 ≈
TaitU.1.11.2. देव-पितृ-कार्याभ्यां न प्रम॑दित॒व्यम्। मातृ॑-देवो॒ भव। पितृ॑-देवो॒ भव। आचार्य॑-देवो॒ भव। अतथि॑-देवो॒ भव। यान्य् अनवद्यानि॑ कर्मा॒णि। तानि सेवि॑तव्या॒नि। नो इ॑तरा॒णि। यान्य् अस्माकग्ँ सुच॑रिता॒नि। तानि त्वयो॑पास्या॒नि॥ 🔗 ≈
TaitU.1.11.3. नो इ॑तरा॒णि। ये के चास्मच् छ्रेयाग्ँ॑सो ब्रा॒ह्मणाः। तेषां त्वयासनेन प्रश्व॑सित॒व्यम्। श्रद्ध॑या दे॒यम्। अश्रद्ध॑यादे॒यम्। श्रि॑या दे॒यम्। ह्रि॑या दे॒यम्। भि॑या दे॒यम्। संवि॑दा दे॒यम्। अथ यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकि॑त्सा वा॒ स्यात्॥ 🔗 ≈
TaitU.1.11.4. ये तत्र ब्राह्मणाः संम॒र्शिनः। युक्ता॑ आयु॒क्ताः। अलूक्षा॑ धर्म॑-कामाः॒ स्युः। यथा ते॑ तत्र॑ वर्ते॒रन्। तथा तत्र॑ वर्ते॒थाः। अथाभ्या᳚ख्याते॒षु। ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः। युक्ता॑ आयु॒क्ताः। अलूक्षा॑ धर्म-कामाः॒ स्युः। यथा ते॑ तेषु॑ वर्ते॒रन्। तथा तेषु॑ वर्ते॒थाः। एष॑ आदे॒शः। एष उ॑पदे॒शः। एषा वे॑दोप॒निषत्। एतद् अ॑नुशा॒सनं। एवम् उपा॑सित॒व्यम्। एवम् उ चैत॑द् उपा॒स्यम्॥ 🔗 ≈
[ब्रह्म-देव-आश्व-लायन-संवादः]
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः। परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति॥KaivU.1.3 ॥ 🔗 ≈
वेदान्त-विज्ञान-सुनिश्चितार्थाः सन्न्यास-योगाद् यतयश् शुद्ध-सत्त्वाः। ते ब्रह्म-लोकेषु परान्त-काले परमामृताः परिमुच्यन्ति सर्वे॥KaivU.1.4 ॥ 🔗 ≈
[संहित-उपनिषत्-प्रवचनम्]
ई॒शा वा॒स्य॑म् इ॒दग्ँ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भु॒ञ्जीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द् धन᳚म्॥IsU.1 ॥ 🔗 ≈
कु॒र्वन्न् ए॒वेह कर्मा᳚णि जिजीवि॒षेच् छ॒तग्ँ समाः᳚। ए॒वं त्वयि॒ नान्यथे॒तो᳚ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे᳚॥IsU.2 ॥ 🔗 ≈
[वरुण-भृगु-संवादः - जिज्ञासस्व]
TaitU.3.1.1. भृगुर् वै वा॑रु॒णिः। वरु॑णं॒ पित॑र॒म् उप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑। तस्मा॑ ए॒तत् प्रो॑वाच। अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒म् इति॑। तग्ँ हो॑वाच। यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। येन॒ जाता॑नि॒ जीव॑न्ति। यत् प्रय॑न्त्य् अ॒भिसंवि॑शन्ति। तद् विजि॑ज्ञासस्व। तद् ब्रह्मेति॑…॥ 🔗 ≈
Go to Top ('Home' key on many Windows browsers)
4. That Which Is To Be Known
[तत्-पद-विचारः]
एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी॥MunU.2.1.3 ॥ 🔗 ≈
[पुरुषः]
PurSuk.2. पुरु॑ष ए॒वेदग्ँ सर्व᳚म्। यद् भू॒तं यच् च॒ भव्य᳚म्…॥🔗 ≈
[जगत्-निमित्त-उपादान-कारणम्]
यथोर्ण॑-नाभिः सृ॒जते॒ गृह्ण॑ते च य॒था पृ॑थि॒व्याम् ओष॑धयः संभवन्ति। यथा॑ सतः पु॒रुषा॑त् केश॑-लोमा॒नि॒ त॒थाक्ष॑रात् सं॒भवती॑ह विश्वम्॥MunU.1.1.7 ॥ 🔗 ≈
तद् एतत् सत्यम्। यथा सु-दीप्तात् पावकाद् विस्फुल्-इङ्गाः सहस्रशः प्रभवन्ते स-रूपाः। तथाक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति॥MunU.2.1.1 ॥ 🔗 ≈
पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते। न हि कल्याण-कृत् कश्चिद् दुर्-गतिं तात गच्छति॥BhG.6.40 ॥ 🔗 ≈
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभिजायते॥BhG.6.41 ॥ 🔗 ≈
अथवा योगिनाम् एव कुले भवति धीमताम्। एतद् धि दुर्-लभतरं लोके जन्म यद् ईदृशम्॥BhG.6.42 ॥ 🔗 ≈
तत्र तं बुद्धि-संयोगं लभते पौर्व-देहिकम्। यतते च ततो भूयः संसिद्धौ कुरु-नन्दन॥BhG.6.43 ॥ 🔗 ≈
[औपनिषत्-पुरुषः]
BrhU.3.9.26. …तं॒ त्वौपनिषदं पु॒रुषं पृच्छामि…॥ 🔗 ≈
न त॑त्र च॒क्षुर् ग॑च्छति न॒ वाग् ग॑च्छति नो॒ मनः॒। न विद्मो॑ न॒ विजा॑नीमो यथै॒तद् अ॑नुशिष्यात्॥KenU.1.3 ॥ 🔗 ≈
अ॒न्यद् ए॑व तद् वि॒दिता॑द् अथो अ॒विदिता॑द् अधि। इति॑ शुश्रुम॒ पूर्वे᳚षां॒ ये न॒स् तद् व्या॑चचक्षि॒रे॥KenU.1.4 ॥ 🔗 ≈
[आचार्यवान् पुरुषो वेद]
ChanU.6.14.1. यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षम् आनीयं तं ततोऽतिजने विसृजेत्। स यथा तत्र प्राङ् वोदङ् वाधराङ् वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः॥ 🔗 ≈
ChanU.6.14.2. तस्य यथाभिनहनं प्रमुच्य प्रब्रूयाद् एतां दिशं गन्धारा एतां दिशं व्रजेति। स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारान् एवोपसंपद्येत। एवम् एवेहाचार्यवान् पुरुषो वेद॥ 🔗 ≈
[वाचारम्भणं विकारो नामधेयम्]
ChanU.6.1.1. श्वेत-केतुर् हारुणेय आस। तग्ँ ह पितोवाच श्वेत-केतो वस ब्रह्म-चर्यम्। न वै सोम्यास्मात् कुलीनोऽननूच्य ब्रह्म-बन्धुर् इव भवतीति॥ 🔗 ≈
ChanU.6.1.2. स ह द्वा-दश-वर्ष उपेत्य चतुर्-विग्ँशति-वर्षः सर्वान् वेदान् अधीत्य महा-मना अनूचान-मानी स्तब्ध एयाय॥ 🔗 ≈
ChanU.6.1.3. श्वेत-केतो यन् नु सोम्येदं महा-मना अनूचान-मानी स्तब्धोऽसि। उत तम् आदेशम् अप्राक्ष्यो येनाश्रुतग्ँ श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् इति। कथं नु भगवः स आदेशो भवतीति॥ 🔗 ≈
ChanU.6.1.4. यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्मयं विज्ञातग्ँ स्यात्। वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्॥ 🔗 ≈
ChanU.6.1.5. यथा सोम्यैकेन लोह-मणिना सर्वं लोहमयं विज्ञातग्ँ स्यात्। वाचारम्भणं विकारो नामधेयं लोहम् इत्य् एव सत्यम्॥ 🔗 ≈
ChanU.6.1.6. यथा सोम्यैकेन नख-निकृन्तनेन सर्वं कार्ष्णायसं विज्ञातग्ँ स्यात्। वाचारम्भणं विकारो नामधेयं कृष्णायसम् इत्य् एव सत्यम्। एवग्ँ सोम्य स आदेशो भवतीति॥ 🔗 ≈
ChanU.6.1.7. न वै नूनं भगवन्तस् त एतद् अवेदिषुः। यद् ध्य् एतद् अवेदिष्यन् कथं मे नावक्ष्यन्न् इति भगवाग्ँस् त्वेव मे ब्रवीत्व् इति। तथा सोम्येति होवाच॥ 🔗 ≈
[सद् एव]
ChanU.6.2.1. सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्॥ 🔗 ≈
ChanU.6.8.4. …सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद् आयतनाः सत् प्रतिष्ठाः॥ 🔗 ≈
ChanU.6.8.7–6.16.3 स य एषोऽणिमैतद् आत्म्यम् इदग्ँ सर्वम्। तत् सत्त्वम्। स आत्मा। तत् त्वम् असि श्वेत-केतो इति। भूय एव मा भगवान् विज्ञापयत्व् इति॥ …तत् सत्त्वम्। स आत्मा। तत् त्वम् असि श्वेत-केतो इति…॥ 🔗 ≈
[आत्मा एव ज्योतिः]
BrhU.4.3.2. या॒ज्ञवल्क्य किं॒-ज्योति॒र् अयं पु॒रुष इ॒ति। आदित्य॒-व्योतिः॒ सम्राड् इ॒ति होवाच। आदित्ये॒नै॒वायं ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒ल्येती॒ति। एव॒म् ए॒वैत॒द् याज्ञवल्क्य॥ 🔗 ≈
BrhU.4.3.3. अ॒स्तमित आदित्ये॒ याज्ञवल्क्य किं॒-ज्योति॒र् ए॒वायं पु॒रुष इ॒ति। चन्द्र॒मा ए॒वास्य ज्यो॒तिर् भवती॒ति। चन्द्र॒मसै॒वायं ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒ल्येती॒ति। ए॒वम् ए॒वैत॒द् याज्ञवल्क्य॥ 🔗 ≈
BrhU.4.3.4. अ॒स्तमित आदित्ये॒ याज्ञवल्क्य चन्द्र॒मस्य् अ॒स्तमिते किं॒-ज्योति॒र् ए॒वायं पु॒रुष इ॒ति। अग्नि॒र् ए॒वास्य ज्यो॒तिर् भवती॒ति। अग्नि॒नै॒वायं ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒ल्येती॒ति। एव॒म् ए॒वैत॒द् याज्ञवल्क्य॥ 🔗 ≈
BrhU.4.3.5. अ॒स्तमित आदित्ये॒ याज्ञवल्क्य चन्द्र॒मस्य् अ॒स्तमिते शा॒न्तेऽग्नौ किं॒-ज्योति॒र् ए॒वायं पु॒रुष इ॒ति। वा॒ग् ए॒वास्य ज्यो॒तिर् भवती॒ति। वा॒चै॒वायं ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒ल्येती॒ति। त॒स्माद् वै॒ सम्राड् अ॒पि य॒त्र स्वः॒ पाणिर् न॒ विनिर्ज्ञा॒यते॒ऽथ य॒त्र वा॒ग् उच्च॒रत्य् उ॒पैव तत्र॒ न्येती॒ति। एव॒म् ए॒वैत॒द् याज्ञवल्क्य॥ 🔗 ≈
BrhU.4.3.6. अ॒स्तमित आदित्ये॒ याज्ञवल्क्य चन्द्र॒मस्य् अ॒स्तमिते शा॒न्तेऽग्नौ॒ शान्ता॒यां वाचि किं॒-ज्योति॒र् ए॒वायं पु॒रुष इति। आ॒त्मै॒वास्य ज्यो॒तिर् भवती॒ति। आत्म॒नै॒वायं ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒ल्येती॒ति॥ 🔗 ≈
BrhU.4.3.7. कतम॒ आत्मे॒ति॒। योऽयं॒ विज्ञानम॒यः प्राणे॒षु हृ॒द्य् अन्त॒र्-ज्योतिः पु॒रुषः स॒ समानः स॒न्न् उभौ॒ लोका॒व् अनुसं॒चरति ध्या॒यतीव लेला॒यतीव। स हि स्व॒प्नो भू॒त्वेनं लोक॒म् अतिक्रा॒मति मृत्यो॒ रूपा॒णि॥ 🔗 ≈
किं ज्योतिस् तव भानुमान् अहनि मे रात्रौ प्रदीपादिकं स्याद् एवं रवि-दीप-दर्शन-विधौ किं ज्योतिर् आख्याहि मे। चक्षुस् तस्य निमीलनादि-समये किं धीर् धियो दर्शने किं तत्राहम् अतो भवान् परमकं ज्योतिस् तद् अस्ति प्रभो॥EkSlok.1 ॥ 🔗 ≈
के॒नेषि॑तं पतति प्रे॒षितं॑ मनः केन॒ प्राणः॒ प्रथ॑मः प्रैति॒ युक्तः॑। केने॑षितां वा॒चम् इ॑मां वदन्ति चक्षुः॑ श्रो॒त्रं क उ॒ देवो॑ युनक्ति॥KenU.1.1 ॥ 🔗 ≈
श्रोत्र॑स्य श्रो॒त्रं मन॑सो म॒नो यद् वा॒चो ह वा॒चं स उ॑ प्रा॒णस्य प्रा॒णः। च॒क्षुष॑श् च॒क्षुर् अ॑तिमुच्य धी॒राः प्रेत्या᳚स्माल् लो॒काद् अ॒मृता॑ भवन्ति॥KenU.1.2 ॥ 🔗 ≈
यद् वा᳚चानभ्यु॒दितं॒ येन॑ वाग् अ॒भ्यु॑द्यते᳚। तद् ए॑व ब्रह्म त्वं विद्धि॑ ने॒दं य॒द् इद॒म् उपा॑सते॥KenU.1.4 ॥ 🔗 ≈
यन् मन॑सा न म॒नुते॑ येना॑हुर् मनो॒ मत᳚म्। तद् ए॑व ब्रह्म त्वं विद्धि॑ ने॒दं य॒द् इद॒म् उपा॑सते॥KenU.1.5 ॥ 🔗 ≈
यच् चक्षु॑षा न प॒श्यति॑ येन॒ चक्षूग्ँ॑षि पश्यति। तद् ए॑व ब्रह्म त्वं विद्धि॑ ने॒दं य॒द् इद॒म् उपा॑सते॥KenU.1.6 ॥ 🔗 ≈
यच् छ्रो॑त्रेण न शृ॒णोति॑ येन॒ श्रोत्र॑म् इदग्ँ श्रुतम्। तद् ए॑व ब्रह्म त्वं विद्धि॑ ने॒दं य॒द् इद॒म् उपा॑सते॥KenU.1.7 ॥ 🔗 ≈
यत् प्रा॑णेन न प्रा॒णिति॑ येन॒ प्राणः॑ प्रणीयते। तद् ए॑व ब्रह्म त्वं विद्धि॑ ने॒दं य॒द् इद॒म् उपा॑सते॥KenU.1.8 ॥ 🔗 ≈
KenU.2.1. य॒दि म॑न्यसे सु॒वेदे॑ति दभ्रम् ए॒वापि॑ नूनम्। त्वं वे॒त्थ ब्र॑ह्मणो रूपं, यद् अ॑स्य त्वं, यद् अ॑स्य दे॒वेषु। अ॑थ नु मी॒माग्ँस्य॑म् एव ते, म॒न्ये वि॑दितम्॥ 🔗 ≈
ना॒हं म॑न्ये सु॒वेदे॑ति नो न॒ वेदेति॒ वेद॑ च। यो न॑स् तद् वेद॒ तद् वेद॒ नो न॒ वेदेति॒ वेद॑ च॥KenU.2.2 ॥ 🔗 ≈
KenU.3.1. ब्र॒ह्म ह॒ देवे᳚भ्यो विजि॑ग्ये। त॒स्य ह॒ ब्रह्म॑णो वि॒जये॒ देवा अमही॑यन्त। त ऐक्षन्तास्मा᳚कम् एवा॒यं विजयोऽस्मा᳚कम् एवा॒यं महि॑मेति। 🔗 ≈
KenU.3.2. …त॒द् धैषां᳚ विज॑ज्ञौ। ते॒भ्यो ह॒ प्रादु॑र्-बभूव। त॒न् न व्य॑जानत कि॒म् इदं॒ यक्ष॑म् इति। 🔗 ≈
KenU.3.3. ते॒ऽग्निम् अ॑ब्रुवञ् ‘जा॒त-वे॑द ए॑तद् वि॒जानी॒हि कि॒म् एत॒द् यक्ष॑म्’ इति। तथे॒ति। 🔗 ≈
KenU.3.4. तद् अ॑भ्यद्रव॒त्। तम् अ॑भ्यवद॒त् कोऽसी᳚ति। अग्नि॒र् वा अ॒हम् अ॑स्मीत्य् अब्र॒वीज्, जा॒त-वे॑दा वा अ॒हम् अ॑स्मी॒ति। 🔗 ≈
KenU.3.5. ‘तस्मिग्ँ॑स् त्वयि॑ किं वी॒र्यम्’ इ॑ति। अ॒पीदग्ँ सर्वं᳚ दहे॒यं यद् इ॑दं पृथि॒व्याम् इति॑। 🔗 ≈
KenU.3.6. तस्मै॑ तृणं नि॒दधा॑व् एतद् द॒हेति॑। त॒दुप॑प्रेयाय स॒र्व-ज॑वेन। त॒न् न श॑शाक द॒ग्धुम्। स तत॑ एव नि॒ववृ॑ते। ‘नैत॑द् अशकं वि॒ज्ञातुं॑ यद् एत॒द् यक्ष॑म्’ इति। 🔗 ≈
KenU.3.7. अथ वा॒युम् अ॑ब्रुवन् ‘वा॒यव् ए॑तद् वि॒जानी॒हि कि॒म् एत॒द् यक्ष॑म्’ इति। तथे॒ति। 🔗 ≈
KenU.3.8. तद् अ॑भ्यद्रव॒त्। तम् अ॑भ्यवद॒त् कोऽसी᳚ति। वायु॒र् वा अ॒हम् अस्मीत्य् अब्र॒वीन्, मा॒तरि॑-श्वा वा अ॒हम् अ॑स्मी॒ति। 🔗 ≈
KenU.3.9. तस्मिग्ँ॑स् त्वयि॑ ‘किं वी॒र्यम्’ इ॑ति। ‘अ॒पीदग्ँ सर्व॑म् आददी॒य यद् इ॑दं पृथि॒व्याम्’ इति॑। 🔗 ≈
KenU.3.10. तस्मै॑ तृणं नि॒दधा॑व् एतद् आ॒दत्स्वेति॑। त॒द् उप॑प्रेयाय स॒र्व-ज॑वेन। त॒न् न श॑शाकादा॒तुम्। स तत॑ एव नि॒ववृ॑ते नैत॑द् अशकं वि॒ज्ञातुं॑ यद् एत॒द् यक्ष॑म् इति। 🔗 ≈
KenU.3.11. अ॒थेन्द्रम् अ॑ब्रुवन् ‘म॒घ॑वन्न् ए॒तद् वि॒जानी॒हि कि॒म् एत॒द् यक्ष॑म्’ इति। तथे॒ति। तद् अ॑भ्यद्रव॒त्। तस्मा᳚त् तिरोद॒धे। 🔗 ≈
KenU.3.12. स तस्मि॑न्न् एवाका॒शे स्त्रि॒यम् आ॑जगाम ब॒हु-शो॑भमानाम् उ॒माग्ँ॑ हैम॑वतीम्। ताग्ँ॒ हो॑वाच कि॒म् एत॒द् यक्ष॑म् इति॥ 🔗 ≈
KenU.4.1. सा ब्रह्मे॒ति हो॑वाच ‘ब्रह्मणो॒ वा ए॑तद्-वि॒जये॒ मही॑यध्वम्’ इति। ततो॑ हैव वि॒दाञ्च॑कार बह्मे॒ति। 🔗 KenU.4.1 – Umā replied, “It was brahman. Through the victory of brahman alone have you attained glory.” Thereupon, Indra understood that it was indeed brahman (by which the gods were merely instruments within the karma order of the Lord).">≈
KenU.4.2. तस्मा॒द् वा ए॒ते दे॒वा अतित॑राम् इ॒वान्या॒न् देवा॒न् यद् अ॑ग्निर् वा॒युर् इ॑न्द्रः। ते ह्य् एन॑न् नेदि॒ष्ठं पस्पृ॑शु॒स् (पस्प॑र्शु॒स्) ते ह्य् एन॑त् प्रथ॒मो वि॒दाञ्च॑कार ब्रह्मे॒ति। 🔗 ≈
KenU.4.3. तस्मा॒द् वा इ॒न्द्रोऽतित॑राम् इ॒वान्या॒न् देवा॒न् स ह्य् एन॑न् नेदि॒ष्ठं पस्प॑र्श। स॒ ह्य् एन॑त् प्रथ॒मो वि॒दाञ्च॑कार ब्रह्मे॒ति। 🔗 ≈
Go to Top ('Home' key on many Windows browsers)
5. Inquiry into this Reality
[श्रुति-प्रमाण-बुद्धिः श्रद्धा इति]
KaivU.1.1 अथाश्वलायनो भगवन्तं परमेष्ठम् उपसमेत्योवाच॥ अधीहि भगवन् ब्रह्म-विद्यां वरिष्टां सदा सद्भिस् सेव्यमानां निगूढाम्। यथाचिरात् सर्व-पापं व्यपोह्य परात् परं पुरुषं याति विद्वान्॥ 🔗 ≈
KaivU.1.2 तस्मै स होवाच पिता-महश् च श्रद्धा-भक्ति-ध्यान-योगाद् अवैहि॥ 🔗 ≈
[ब्रह्म लक्षणम्]
BrhU.5.1.1 ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते। पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते। ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥ 🔗 ≈
TaitU.2.1.1. ब्र॒ह्म॒-विद् आ᳚प्नोति॒ पर᳚म्। तद् ए॒षाभ्यु॑क्ता। स॒त्यं ज्ञा॒नम् अ॑न॒न्तं ब्रह्म॑। यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्। सो᳚ऽश्नुते॒ सवा॒न् कामा᳚न् स॒ह ब्रह्म॑णा विप॒श्चितेति॑॥🔗 ≈
आत्मा॒नं चे॒द् विजानीया॒द् अय॒म् अस्मी॒ति पू॒रुषः। कि॒म् इच्छन् क॒स्य का॒माय श॒रीरम् अ॒नुसं॒ज्वरेत्॥BrhU.4.4.12 ॥ 🔗 ≈
BrhU.4.4.5. स वा॒ अय॒म् आत्मा ब्र॒ह्म विज्ञानम॒यो मनोम॒यः प्राणम॒यश् चक्षुर्म॒यः श्रोत्रम॒यः पृथिवीम॒य आपोम॒यो वायुम॒य आकाशम॒यस् तेजोम॒योऽतेजोम॒यः कामम॒योऽकामम॒यः क्रोधम॒योऽक्रोधम॒यो धर्मम॒योऽधर्मम॒यः सर्वम॒यः। तद् य॒द् एत॒द् इदंम॒योऽदोम॒यः इ॒ति। यथाकारी॒ यथाचारी॒ तथा॒ भवति। साधु-कारी॒ साधु॒र् भवति। पाप-कारी॒ पापो॒ भवति। पु॒ण्यः पु॒ण्येन क॒र्मणा भ॒वति पा॒पः पा॒पेन॒। अथो ख॒ल्व् आहुः कामम॒य ए॒वायं पु॒रुष इ॒ति। स य॒था-कामो भ॒वति त॒त् क्रतु॒र् भवति। य॒त् क्रतुर् भ॒वति तत् क॒र्म कुरुते। यत् क॒र्म कुरुते त॒द् अभिसं॒पद्यते॥ 🔗 ≈
BrhU.4.4.6. …अथाकाम॒यमानो॒ योऽकामो॒ निष्-काम॒ आप्त॒-काम आत्म॒-कामो न त॒स्य प्राणा उ॒त्क्रामन्ति। ब्र॒ह्मैव सन् ब्रह्मा॒प्येति॥ 🔗 ≈
BrhU.4.4.22. स वा॒ एष॒ महान् अज॒ आत्मा॒ योऽयं॒ विज्ञानम॒यः प्राणे॒षु। य॒ ए॒षोऽन्तर्-हृ॒दय आकाशस् त॒स्मिञ् छेते स॒र्वस्य व॒शी स॒र्वस्ये॒शानः स॒र्वस्या॒धिपतिः स न॒ साधुना क॒र्मणा भू॒या॒न् नो ए॒वासा॒धुना क॒नीयान्। एष॒ सर्वेश्वरः॒। एष॒ भूताधिपतिः॒। एष॒ भूत-पालः॒। एष से॒तुर् वि॒धरण एषां॒ लोका॒नाम् अ॒संभेदाय॥ 🔗 ≈
[अधि-दैवम् अन्तर्-यामी]
BrhU.3.7.3. यः॒ पृथिव्यां ति॒ष्ठन् पृथिव्या अ॒न्तरो यं॒ पृथिवी न वे॒द य॒स्य पृथिवी श॒रीरं यः॒ पृथिवीम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.4. योऽप्सु ति॒ष्ठन्न् अद्भ्यो॒ऽन्तरो यम् आ॒पो न वि॒दुर् यस्या॒पः श॒रीरं॒ योऽपो॒ऽन्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.5. योऽग्नौ ति॒ष्ठन्न् अग्नेर् अ॒न्तरो य॒म् अग्निर् न वे॒द य॒स्याग्निः श॒रीरं॒ योऽग्निम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.6. योऽन्त॒रिक्षे ति॒ष्ठन्न् अ॒न्तरिक्षाद् अ॒न्तरो य॒म् अन्त॒रिक्षं न वे॒द य॒स्यान्त॒रिक्षग्ँ श॒रीरं॒ योऽन्त॒रिक्षम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.7. यो॒ वायौ ति॒ष्ठन् वायोर् अ॒न्तरो यं॒ वायुर् न वे॒द य॒स्य वायुः श॒रीरं यो॒ वायुम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.8. यो॒ दिवि ति॒ष्ठन् दिवो॒ऽन्तरो यं द्यौर् न वे॒द य॒स्य धौः श॒रीरं यो दि॒वम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.9. य॒ आदित्ये ति॒ष्ठन्न् आदित्याद् अ॒न्तरो य॒म् आदित्यो न वे॒द य॒स्यादित्यः श॒रीरं य॒ आदित्यम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.10. यो॒ दिक्षु ति॒ष्ठन् दिग्भ्यो॒ऽन्तरो यं दि॒शो न वि॒दुर् य॒स्य दि॒शः श॒रीरं यो दिशो॒ऽन्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.11. य॒श् चन्द्र-तारते ति॒ष्ठग्ँश् चन्द्र-तारकाद् अ॒न्तरो यं॒ चन्द्र-तारकं न वे॒द य॒स्य चन्द्र-तारकग्ँ श॒रीरं य॒श् चन्द्र-तारकम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.12. य॒ आकाशे ति॒ष्ठन्न् आकाशाद् अ॒न्तरो य॒म् आकाशो न वे॒द य॒स्याकाशः श॒रीरं य॒ आकाशम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.13. यस् त॒मसि ति॒ष्ठग्ँस् त॒मसो॒ऽन्तरो यं त॒मो न वे॒द य॒स्य त॒मः श॒रीरं यस् तमो॒ऽन्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.14. यस् ते॒जसि ति॒ष्ठग्ँस् ते॒जसो॒ऽन्तरो यं ते॒जो न वे॒द य॒स्य ते॒जः श॒रीरं यस् तेजो॒ऽन्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒त इ॒त्य् अधि-दैवतम् अ॒थाधिभूतम्॥ 🔗 ≈
[अधि-भूतम् अन्तर्-यामी]
BrhU.3.7.15. यः॒ स॒र्वेषु भूते॒षु ति॒ष्ठन् स॒र्वेभ्यो भूतेभ्यो॒ऽन्तरो यग्ँ स॒र्वाणि भूता॒नि न वि॒दुर् य॒स्य स॒र्वानि भूता॒नि श॒रीरं यः॒ स॒र्वाणि भूतान्य् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒त इत्य् अधि-भूतम् अ॒थाध्य्-आत्मम्॥ 🔗 ≈
[अध्य्-आत्मम्]
BrhU.3.7.16. यः प्राणो ति॒ष्ठन् प्राणाद् अ॒न्तरो यं॒ प्राणो न वे॒द य॒स्य प्राणः श॒रीरं यः॒ प्राणम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.17. यो॒ वाचि ति॒ष्ठन् वाचो॒ऽन्तरो यं वाङ् न वे॒द य॒स्य वाक् श॒रीरं यो॒ वाचम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.18. यश् च॒क्षुषि ति॒ष्ठग्ँश् च॒क्षुषो॒ऽन्तरो यं च॒क्षुर् न वे॒द य॒स्य च॒क्षुः श॒रीरं यश् च॒क्षुर् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.19. यः श्रो॒त्रे ति॒ष्ठञ् छ्रोत्राद् अ॒न्तरो यग्ँ श्रो॒त्रं न वे॒द य॒स्य श्रो॒त्रग्ँ श॒रीरं यः श्रो॒त्रम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.20. यो म॒नसि ति॒ष्ठन् म॒नसो॒ऽन्तरो यं म॒नो न वे॒द य॒स्य म॒नः श॒रीरं यो मनो॒ऽन्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.21. य॒स् त्वचि ति॒ष्ठग्ँस् त्वचो॒ऽन्तरो यं त्वङ् न वे॒द य॒स्य त्वक् श॒रीरं यस् त्व॒चम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 BrhU.3.7.21 – He who inhabits the skin, but is within it, whom the skin does not know, whose body is the skin, and who controls the the skin from within, is the Internal Ruler, your own immortal self.">≈
BrhU.3.7.22. यो॒ विज्ञा॒ने ति॒ष्ठन् विज्ञा॒नाद् अ॒न्तरो यं॒ विज्ञा॒नं न वे॒द य॒स्य विज्ञा॒नग्ँ श॒रीरं यो॒ विज्ञा॒नम् अ॒न्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ 🔗 ≈
BrhU.3.7.23. यो रे॒तसि ति॒ष्ठन् रे॒तसो॒ऽन्तरो यग्ँ रे॒तो न वे॒द य॒स्य रे॒तः श॒रीरं यो रेतो॒ऽन्तरो यम॒यत्य् एष॒ त आ॒त्मान्तर्-या॒म्य् अमृ॒तः॥ अ-दृष्टो द्रष्टा॒श्रुतः श्रोता॒मतो मन्ता॒विज्ञातो विज्ञाता॒। नान्यो॒ऽतोऽस्ति द्रष्टा॒ नान्यो॒ऽतोऽस्ति श्रोता॒ नान्यो॒ऽतोऽस्ति मन्ता॒ नान्यो॒ऽतोऽस्ति विज्ञा॒ता। एष॒ त आ॒त्मान्तर्या॒म्य् अमृतो॒ऽतोऽन्यद् आ॒र्तम्। त॒तो होद्दा॒लक आ॒रुणिर् उ॒परराम॥ 🔗 ≈
[अ-क्षरस्य प्रशासनम्]
BrhU.3.8.9. एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने गार्गि सूर्या-चन्द्रम॒सौ वि॒धृतौ ति॒ष्ठतः। एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने गार्गि द्या॒वा-पृथिव्यौ वि॒धृते ति॒ष्ठतः। एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने गार्गि निमेषा॒ मुहूर्ता॒ अहो-रात्रा॒प्य् अर्ध-मासा मा॒सा ऋत॒वः संवत्सरा इ॒ति वि॒धृतास् ति॒ष्ठन्ति। एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने गार्गि प्रा॒च्योऽन्या न॒द्यः स्य॒न्दन्ते श्वेते॒भ्यः प॒र्वतेभ्यः प्रती॒च्योऽन्या यां॒ यां च दि॒शम् अ॒नु। एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने गार्गि द॒दतो मनु॒ष्याः प्र॒शग्ँसन्ति य॒जमानं देवा द॒र्वीं पित॒रोऽन्वा॒यत्ताः॥ 🔗 ≈
[अ-क्षरम्]
BrhU.3.8.8. स॒ होवाच। एतद् वै त॒द् अक्ष॒रं गार्गि ब्राह्मणा॒ अभि॒वदन्त्य् अस्थूल॒म् अन॒ण्व् अह्रस्व॒म् अदीर्घ॒म् अलो॒हितम् अस्नेह॒म् अच्छाय॒म् अत॒मोऽवा॒य्व् अनकाश॒म् असङ्ग॒म् अरस॒म् अगन्ध॒म् अचक्षु॒ष्कम् अश्रोत्र॒म् अवा॒ग् अम॒नोऽतेज॒स्कम् अप्राणम् अ॒सुखम् अमात्र॒म् अनन्तर॒म् अबाह्यम्। न त॒द् अश्नाति किं॒चन। न त॒द् अश्नाति क॒श्चन॥ 🔗 ≈
ManU.7. नान्तः-प्रज्ञं न बहिः-प्रज्ञं नोभयतः-प्रज्ञं न प्रज्ञान-घनं न प्रज्ञं नाप्रज्ञम्। अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एकात्म-प्रत्यय-सारं प्रपञ्चोपशमं शान्तं शिवम् अद्वैतं चतुर्थं मन्यन्ते। स आत्मा। स विज्ञेयः॥ 🔗 ≈
BrhU.2.4.10. स य॒थार्द्रैधाग्ने॒र् अभ्या॒हितात् पृ॒थग् धूमा॒ विनिश्च॒रन्त्य् एवं वा॒ अरेऽस्य॒ महतो॒ भूत॒स्य निः॒श्वसितम् एतद् य॒द् ऋग्-वेदो॒ यजुर्-वेदः॒ साम-वे॒दोऽथर्वाङ्गिर॒स इति-हासः॒ पुराणं॒ विद्या॒ उपनिष॒दः श्लो॒काः सू॒त्राण्य् अनुव्याख्या॒नानि व्याख्या॒नानि। अस्यै॒वैता॒नि नि॒श्वसितानि॥ 🔗 ≈
BrhU.2.4.11. स य॒था स॒र्वासाम् अपाग्ँ॒ समुद्र॒ एकायन॒म् एवग्ँ स॒र्वेषाग्ँ स्पर्शा॒नां त्व॒ग् एकायन॒म् एवग्ँ स॒र्वेषां गन्धा॒नां ना॒सिकैकायन॒म् एवग्ँ स॒र्वेषाग्ँ र॒सानां जि॒ह्वैकायन॒म् एवग्ँ स॒र्वेषाग्ँ रूपा॒णाण् च॒क्षुर् एकायन॒म् एवग्ँ स॒र्वेषाग्ँ श॒ब्दानाग्ँ श्रो॒त्रम् एकायन॒म् एवग्ँ स॒र्वेषाग्ँ सङ्कल्पा॒नां म॒न एकायन॒म् एवग्ँ स॒र्वासां विद्या॒नाग्ँ हृ॒दयम् एकायन॒म् एवग्ँ स॒र्वेषां क॒र्मणाग्ँ ह॒स्ताव् एकायन॒म् एवग्ँ स॒र्वेषाम् आनन्दा॒नाम् उप॒स्थ एकायन॒म् एवग्ँ स॒र्वेषां विसर्गा॒णां पा॒युर् एकायन॒म् एवग्ँ स॒र्वेषाम् अ॒ध्वनां पा॒दाव् एकायन॒म् एवग्ँ स॒र्वेषां वेदा॒नां वा॒ग् एकायनम्॥ 🔗 ≈
BrhU.2.4.12. स य॒था सैन्धव-खिल्य॒ उदके प्रा॒स्त उदक॒म् ए॒वानुविली॒येत। न॒ हास्योद्ग्र॒हणायेव स्याद्। य॒तो यत॒स् त्व् आद॒दीत लवण॒म् ए॒वैवं वा॒ अर इदं॒ महद् भूत॒म् अनन्त॒म् अपारं॒ विज्ञानघन॒ ए॒व। एते॒भ्यो भूते॒भ्यः समुत्था॒य ता॒न्य् ए॒वानु वि॒नश्यति॥ 🔗 ≈
[अन्तर्-यामी]
BrhU.4.3.23. यद् वै तन् न प॒श्यति प॒श्यन् वै तन् न॒ पश्यति। न हि॒ द्रष्टुर् दृ॒ष्टेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒त् पश्येत्॥ 🔗 ≈
BrhU.4.3.24. यद् वै तन् न जि॒घ्रति जि॒घ्रन् वै तन् न॒ जिघ्रति। न हि॒ घ्रातुर् घ्रा॒तेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒ज् जिघ्रेत्॥ 🔗 ≈
BrhU.4.3.25. यद् वै तन् न॒ रसयते र॒सयन् वै तन् न॒ रसयते। न हि॒ रसयितू र॒सयतेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒द् रसयेत्॥ 🔗 ≈
BrhU.4.3.26. यद् वै तन् न व॒दति व॒दन् वै तन् न॒ वदति। न हि॒ वक्तुर् व॒क्तेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒द् वदेत्॥ 🔗 ≈
BrhU.4.3.27. यद् वै तन् न॒ शृणोति शृण्वन् वै तन् न॒ शृणोति। न हि॒ श्रोतुः श्रु॒तेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒च् छृणुयात्॥ 🔗 ≈
BrhU.4.3.28. यद् वै तन् न॒ मनुते मन्वानो वै तन् न॒ मनुते। न हि॒ मन्तुर् म॒तेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒न् मन्वीत॥ 🔗 ≈
BrhU.4.3.29. यद् वै तन् न॒ स्पृशति स्पृ॒शन् वै तन् न॒ स्पृशति। न हि॒ स्प्रष्टुः स्पृ॒ष्टेर् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒त् स्पृशेत्॥ 🔗 ≈
BrhU.4.3.30. यद् वै तन् न॒ विजाना॒ति वि॒जानन् वै तन् न॒ विजाना॒ति। न हि॒ विज्ञातु॒र् विज्ञाते॒र् विपरिलोपो॒ विद्यते॒ऽविनाशित्वात्। न॒ तु त॒द् द्विती॒यम् अस्ति त॒तोऽन्यद् वि॒भक्तं य॒द् वि॒जानीयात्॥ 🔗 ≈
BrhU.4.3.31. य॒त्र वा॒ अन्य॒द् इव स्यात्, त॒त्रा॒न्योऽन्य॒त् पश्ये॒द्, अ॒न्योऽन्य॒ज् जिघ्रे॒द्, अ॒न्योऽन्य॒द् रसये॒द्, अ॒न्योऽन्य॒द् वदे॒द्, अ॒न्योऽन्य॒च् छृणुया॒द्, अ॒न्योऽन्य॒न् मन्वीता॒न्योऽन्य॒त् स्पृशे॒द्, अ॒न्योऽन्यद् वि॒जानीयात्॥ 🔗 ≈
BrhU.4.3.32. स-लील ए॒को द्रष्टा॒द्वैतो भ॒वति। एष॒ ब्रह्म-लोकः॒ सम्राट्। इ॒ति हैनम् अ॒नुशशास या॒ज्ञ-वल्क्यः। ए॒षाऽस्य परमा ग॒तिः। ए॒षाऽस्य परमा॒ संप॒त्। ए॒षोऽस्य परमो॒ लोकः॒। ए॒षोऽस्य परम॒ आनन्दः॒। एत॒स्यै॒वानन्द॒स्यान्या॒नि भूता॒नि मा॒त्राम् उ॒पजीवन्ति॥ 🔗 ≈
[ज्ञान-साधनम्]
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम्। आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः॥BhG.13.7 ॥ 🔗 ≈
इन्द्रियार्थेषु वैराग्यम् अनहङ्-कार एव च। जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम्॥BhG.13.8 ॥ 🔗 ≈
असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु। नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु॥BhG.13.9 ॥ 🔗 ≈
मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी। विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि॥BhG.13.10 ॥ 🔗 ≈
अध्य्-आत्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम्। एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतोऽन्यथा॥BhG.13.11 ॥ 🔗 ≈
अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च। निर्-ममो निर्-अहङ्-कारः सम-दुःख-सुखः क्षमी॥BhG.12.13 ॥ 🔗 ≈
सन्तुष्टः स-ततं योगी यतात्मा दृढ-निश्चयः। मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः॥BhG.12.14 ॥ 🔗 ≈
यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः। हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः॥BhG.12.15 ॥ 🔗 ≈
अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः। सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः॥BhG.12.16 ॥ 🔗 ≈
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः॥BhG.12.17 ॥ 🔗 ≈
समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः॥BhG.12.18 ॥ 🔗 ≈
तुल्य-निन्दा-स्तुतिर् मौनी सन्तुष्टो येन केनचित्। अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः॥BhG.12.19 ॥ 🔗 ≈
ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते। श्रद्-दधाना मत्-परमा भक्तास् तेऽतीव मे प्रियाः॥BhG.12.20 ॥ 🔗 ≈
[एक-श्लोके गीतार्थम्]
यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम्। स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः॥BhG.18.46 ॥ 🔗 ≈
Go to Top ('Home' key on many Windows browsers)
पूर्ण॒म् अदः॒ पूर्ण॒म्… (शुक्ल-यजुर्-वेदः — बृहद्-आरण्यकोपनिषद् ५.१.१)
🔗
ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते। पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते। ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥
Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc. pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ. Om, śānti, śānti, śānti.
॥इति वाक्य-अर्थ-विचारः समाप्तः॥